विश्व - दृष्टि - भाग 2 | Vishwa - Drishti Bhag - 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Vishwa - Drishti Bhag - 2  by वि. वेंकटाचलम - Vi. Venktachalam

लेखक के बारे में अधिक जानकारी :

No Information available about वि. वेंकटाचलम - Vi. Venktachalam

Add Infomation About. Vi. Venktachalam

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
534 विश्व-दृच्चटि सम्पूर्णमुक्त॑ परिपूर्तिमेति कालेन येनेत्युदित: स्वसृष्टे: । ते सृष्टिकल्प॑ ग्रहगोलविज्ञा बदन्ति सूक्ष्मग्रहपूर्वसिद्धयै ॥ स सृष्टिकाल: कमलोदुभवस्य जने: शतघ्नाब्धिनगाब्धिवर्षे: । दिन्यैर्भवेद्‌ ब्रह्मसमुद्गमात्त॑ कल्पप्रमाणं समयं वदन्ति ॥' अपि च तत्रैवाग्रतो वदति कमलाकर: - लड्डार्धरात्रे यमकोटिजातसूर्योदये चाश्वचलांशकादौ । मधो: सितादौ रविवासरादौ खेटोच्चपातादिसमस्तमुक्तम्‌ ॥ चारक्रमात्‌ कालबशादू विभिन्‍नमपि स्वमेषाशिविमुखे बभूव । सृष्ट्याद्य काले बुगपच्च पूर्वमेकत्र चेत्थ॑ न विधेिनादौ ॥' अर्थात्‌ सृष्टित: पूर्व न्यूनाधिकराश्यादिगता: सर्वे ग्रहोच्चपातादयों यदा लड़ार्धरात्रे नाडीवृत्ते अजादियुता अर्थादयनांशावसरे नाडीवृत्तक्रान्तिवृत्तम्पातस्यथ निरयणमेषादौ युगपद्युता मिलिता: स्वकक्षास्थमेषादिबिन्दुगतास्तदा सृष्ट्याह्नयं कालमाचार्या उदाहरन्ति कथयन्ति । ततो5नन्तरं पुनस्ते स्वस्वन्यूनाधिकगत्या पृष्ठतो$ग्रतश्च श्रमन्तो ग्रहा यदा पुनर्युगपन्मेषादौ मिलितास्तदा पुन: स योगो जातस्तत्र प्रथमयोगाद्‌ द्वितीययोगपर्यन्तकालं सृष्टिकल्प॑ सन्त: प्रवदन्ति । स च सृष्ट्यारंभकाल: कमलोदुभवस्य ब्रह्मणो जने: जन्मत: सकाशात्‌ पश्चाद दिव्यै: चतुःशताधिके: सप्तचत्वारिंशद्भिस्सहब्रै्वर्ष्घटित: ॥ इति | अत्र कमलाकरोक्तो यद्यप्यन्यत्सर्व भास्करोक्तिवदेव, केवलं भास्करेण युगपदेव विध्यादि सृष्ट्याधे उक्ते, किन्तु कमलाकरेण तु लड्ार्धरात्रे सृष्ट्यादिरुक्ता तथा विध्यादित: शतध्नाब्धिनगाब्धि- दिव्यवर्षानन्तरं सा सृष्टिजतिति प्ृथक्‌-पृथग्‌ विध्यादिसृष्ट्याचे उक्ते । इदमेवोभयोर्मतयो: पार्थक्यम्‌ | सृष्ट्यादित: सृष्ट्यन्तकालस्य समानत्वमेतयोर्मतयो: । किज्च, भास्करमते खस्थग्रहनक्षत्राणा बिम्बानि विधिनिर्मितान्येव सन्ति, कमलाकरमते तु तानि न विधिनिर्मितानि, यान्येव भूस्थितानि प्रतिदिनमनेकानि जायन्ते प्रियन्ते च, तान्येव केवल विधि- निर्मितानि भवन्ति । यथोक्तं कमलाकरेण सिद्धान्ततत्त्वविवेके मध्यमाधिकारे- 'दैनन्दिनसुसृष्ट्यर्थमनिरुद्धाकेजो विधि: । भूस्थितानाज्व जीवानां न स्थिराम्बरवासिनाम्‌ ॥ तथा च भास्कराचार्येण स्वसिद्धान्तशिरोमणौ- यत: सृष्टिरेषां दिनादौ दिनान्ते लयस्तेषु सत्स्वेव तच्चारचिन्ता । अतों युज्यते कुर्वते तां पुनर्य$प्यसत्स्वेषु तेभ्यो महदुभ्यो नमोस्तु ॥ इति पेन ब्रह्मदिनादौ खस्थानां सृष्टि: ब्रह्मदिनान्ते च तेषां लय इति यत्प्रतिपादितं तदुपर्युक्त- खण्डित॑ भवति । अर्थात्‌ कमलाकरस्याभिप्रायोधय॑ यद्‌॒ यद्यदू ग्रहनक्षत्रवशेन कालमानज्ञानं जायते, तत्तननाशे निशाकल्पप्रमाणज्ञान॑ कथं सम्भवेत्‌ ? अतस्ते खस्था: सदैवाविनाशिन: सन्तीति |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now