अभिधर्मकोशम | Abhidharmakosa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Abhidharmakosa  by स्वामी द्वारिकादास शास्त्री - Swami Dvarikadas Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी द्वारिकादास शास्त्री - Swami Dvarikadas Shastri

Add Infomation AboutSwami Dvarikadas Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्द्छे भॉष्यस्फुटार्थासहितेमिघमक्रो दो [ लौक- तस्या: केन बलवत्त्वम्‌ ? समापत्तिविशेषजत्वात । सा हि समापत्ति- विभितरूपसंज्ञा । तत एव तह्ं बलवत्त्वात्‌ प्रवर्तिष्यते, कि पुनर्निश्रयेण ? इदं चापि वक्तव्यम--यथा रूपिणां सत्त्वानां रूप॑ निश्रित्य प्रवत्तते निकायसभाग:, जीवितेन्द्रिय॑ च; एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवत्तते ? तदेतदू' द्वय- मन्यो इन्यम्‌ । रूपिणामपि तहिं किमर्थ न तदेव द्वयमन्योन्यम्‌ ! दुर्बखत्वात्‌ तयो: । तत्रेदानी केन बल्वत्त्वमू ? समापत्तिविशेषजत्वात्‌ । तदेतखित्तसन्ततौ समान॑ चित्तचैत्तेष वा । तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्य॑ निश्रय इति सौत्रान्तिका! । अपितु यस्याश्चित्तसन्ततेराक्षे पहेतुरवीततृष्ण: , रूपे तस्या: सह रूपेण रूपिणां सत्त्वानां दुबंला चित्तसन्ततिरविभ्रुतरूपसंज्ञत्वाद विना रूपेण न वत्तंते, ततो रूप॑ निश्चित्य वत्तंते । तस्याः केन बलवस्वमिति | तस्या आरूप्यावचर्या: केन कारणेन बलवत्त्वसु ? अत आह--समापत्तिविश्षेषजत्वादिति विस्तर: । क्भतरूपसंज्ञेति । विगतरूप- संज्ञेत्यर्थ: । अतस्तज्ञा आरूप्या चित्तसन्ततिरपि रूपनिरपेक्षा प्रवत्तंते । तत एवं तहि बलवत्वातु समापत्तिविशेषजनितात्‌ प्रवत्तंयिष्यते । किख््विदनिश्रित्ये- त्यभिष्राय: । यथा रूपिणामिति विस्तर: । यथा रूपिणां रूपनिश्रिते निकायसभाग- जीवितेन्द्रिये, एवमरूपिणां किनिश्रिते इति वाक्याथं: । तदेतदेतदू द्रयमन्योन्यमिति । निकायस भागों जीवितेन्द्रियं निश्रित्य प्रवर्तते, जीवितेन्द्रिय॑ च निकायसभागमिति । किंमर्थ न तदेव द्वयमन्योन्यमिति । कि रूपनिश्रयेणेत्यभिप्राय: । तत्रेदानीमिति । तत्रारूप्यघातौ केन बलवत्त्व॑ तयो- निकायसभागजी वितेन्द्रिययो: । तदेतत्‌ चित्तसन्ततों समानमिति । असावपि चित्तसन्तति: समापत्तिविशेषाज्ञाता भवतीति न द्वयं निश्रित्य प्रवत्त॑यिष्यते । अनाश्रिते प्रवत्तेयिष्यत इति चित्तचैत्तेपु वा समानमिति प्रकृतमु । कि पुन: समानमन्योन्यनिश्रयत्वम्‌ ? यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते, जीवितेन्द्रिय॑ च निकायसभागं निश्चित्य प्रवत्तंते; तथा चित्त निश्रित्य चेत्ता: प्रवत्तंयिष्यन्ते, चेत्ताश्चि निश्नित्य चित्त प्रवर्तेयिष्यत इति । तदन्योन्याश्रयकल्पना निष्प्रयोजनेति । यस्याधित्तसन्ततेरिति । विस्तर:--चित्तसन्ततेराक्षेपाय हेतुरा- १. तदेव--का० ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now